|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.128. अध्यायः 128
Mahabharata - Udyoga Parva - Chapter Topics
श्रीकृष्णेन दुर्योधनंप्रति सगर्हणं पाण्डवेषु तत्कृतापनयानुस्मारणम् ॥ 1 ॥ दुर्योधनस्य पाण्डवैरसन्धाने कौरवैर्वन्धनपूर्वकं पाण्डवेभ्यः स्वसमर्पणप्रतिपादकदुश्शासनवचनश्रवणजकोपात् सभातो निर्गमनम् ॥ 2 ॥ कृष्णेन धृतराष्ट्रंप्रति कुलस्यार्धे दुर्योधनपरित्यागाविधानम् ॥ 3 ॥ तथा सदृष्टान्तप्रदर्शनं दुर्योधनस्य बन्धनपूर्वकं पाण्डवेभ्यः समर्पणविधानम् ॥ 4 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच ॥ 5-128-0x(3764)(36080)
ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः ।
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ 5-128-1(36081)
लप्स्यसे वीरशयनं काममेतदवाप्स्यसि।
स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥ 5-128-2(36082)
यच्चैतन्मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः।
पाण्डवेष्विति तत्सर्वं निबोध त्वं नराधिप ॥ 5-128-3(36083)
श्रियां संतप्यमानेन पाण्डवानां महात्मनाम् ।
त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ॥ 5-128-4(36084)
कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः ।
तथाऽन्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ॥ 5-128-5(36085)
अक्षद्यूतं महाप्रज्ञ सतां मतिविनाशनम् ।
असतां तत्र जायन्ते भेदाश्च व्यसनानि च ॥ 5-128-6(36086)
तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् ।
असमीक्ष्य सदाचारान्सार्धं पापानुबन्धनैः ॥ 5-128-7(36087)
कश्चान्यो भ्रातृभार्यां वै विप्रकर्तृं तथार्हति।
आनीय च सभां व्यक्तं यथोक्ता द्रौपदी त्वया ॥ 5-128-8(36088)
कुलीना शीलसंपन्ना प्राणेभ्योऽपि गरीयसी ।
महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ॥ 5-128-9(36089)
जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि ।
दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ॥ 5-128-10(36090)
सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।
स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् ॥ 5-128-11(36091)
नृशंसानामनार्याणां तथा परुषभाषणम् ।
कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥ 5-128-12(36092)
सह मात्रा प्रदग्धुं तान्बालकान्वारणावते ।
आस्थितः परमो यत्नो न समृद्धश्च तत्तव ॥ 5-128-13(36093)
ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा।
मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ 5-128-14(36094)
विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया ।
सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥ 5-128-15(36095)
एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।
कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥ 5-128-16(36096)
`एवंवृत्तः कथं राज्ये स्थातुमर्हसि पापकृत्।
स राज्याच्च सुखाच्चैव हास्यसे कुलपांसन ॥ 5-128-17(36097)
यच्चैभ्यो याचमानेभ्यः पित्र्यमंशं न दित्सति ।
तच्च पाप प्रदाताऽसि भ्रष्टैश्वर्यो निपातितः ॥ 5-128-18(36098)
कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत्।
मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥ 5-128-19(36099)
मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च।
शाम्येति मुहुरुक्तोसि न च शाम्यसि पार्थिव ॥ 5-128-20(36100)
शमे हि सुमहाँल्लाभस्तव पार्थस्य चोभयोः ।
न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ॥ 5-128-21(36101)
न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः।
अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥ 5-128-22(36102)
वैशम्पायन उवाच। 5-128-23x(3765)
एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।
दुःशासन इदं वाक्यमब्रवीत्करुसंसदि ॥ 5-128-23(36103)
न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः।
बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ 5-128-24(36104)
वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ ।
पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥ 5-128-25(36105)
भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः ।
क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ॥ 5-128-26(36106)
विदुरं च सोमदत्तं च महाराजं च बाह्लिकम्।
कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ॥ 5-128-27(36107)
सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः।
अशिष्टवदमर्यादो मानी मान्यावमानिता ॥ 5-128-28(36108)
तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम्।
अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ॥ 5-128-29(36109)
सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह।
दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ॥ 5-128-30(36110)
धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते ।
हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ॥ 5-128-31(36111)
दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित्।
मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ॥ 5-128-32(36112)
कालपक्वमिदं मन्ये सर्वं क्षत्रं जनार्दन ।
सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ॥ 5-128-33(36113)
भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः ।
भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ॥ 5-128-34(36114)
सर्वेषां कुरुवृद्धानां महानयमतिक्रमः ।
प्रसह्य मन्दमैश्वर्ये न नियच्छन्ति यन्नृपम् ॥ 5-128-35(36115)
तत्र कार्यमहं मन्ये कालप्राप्तमरिन्दमाः ।
क्रियमाणे भवेच्छ्रेयस्तत्सर्वं श्रृणुतानघाः ॥ 5-128-36(36116)
प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः ।
भवतामानुकूल्येन यदि रोचेत भारताः ॥ 5-128-37(36117)
पुत्रो वै भोजराजस्य दुराचारो ह्यनात्मवान् ।
जीवतः पितुरैश्वर्यं हृत्वा मृत्युवशं गतः ॥ 5-128-38(36118)
उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः।
ज्ञातीनां हितकामेन मया शस्तो महामृधे ॥ 5-128-39(36119)
आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः ।
उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ॥ 5-128-40(36120)
संसमेकं परित्यज्य कुलार्थे सर्वयादवाः।
संभूय सुखमेधन्ते भारतान्धकवृष्णयः ॥ 5-128-41(36121)
अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः ।
व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ॥ 5-128-42(36122)
द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत ।
अब्रवीत्तु तदा देवो भगवाँल्लोकभावनः ॥ 5-128-43(36123)
पराभविष्यन्त्यसुरा दैतेया दानवैः सह ।
आदित्या वसवो रुद्रा भविष्यन्ति दिवौसकः ॥ 5-128-44(36124)
देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः ।
अस्मिन्युद्धे सुसंक्रुद्धा हनिष्यन्ति परस्परम् ॥ 5-128-45(36125)
` वर्तमानं जगत्सर्वं मुहूर्तान्न भविष्यति।'
इति मत्वाऽब्रवीद्धर्मं परमेष्ठी प्रजापतिः ।
वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ॥ 5-128-46(36126)
एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः।
वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ॥ 5-128-47(36127)
तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः ।
वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ॥ 5-128-48(36128)
तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् ।
बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ॥ 5-128-49(36129)
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ 5-128-50(36130)
राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः ।
त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ॥ ॥ 5-128-51(36131)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाविंशत्यधिकशततमोऽध्यायः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|